|
|
 |
 |
|
|
१४ अश्वमेधिकपर्व.jpg)
॥ श्रीः ॥
14.83. अध्यायः 083
अश्वमेधपर्व ॥ 1 ॥
Mahabharata - Ashvamedhika Parva - Chapter Topics
अर्जुनेनास्वानुसरणवशान्मगधदेशगमनम्॥ 1 ॥ तत्र जरासंधपौत्रस्य मेघसंधेः पराजयपूर्वकं तत्रतत्र म्लेच्छादिपराजयः॥ 2 ॥
Mahabharata - Ashvamedhika Parva - Chapter Text
वैशम्पायन उवाच।
स तु वाजी समुद्रान्तां पर्येत्य वसुधामिमाम्।
निवृत्तोऽभिमुखो राजन्येन वारणसाह्वयम्॥ 14-83-1(94819)
अनुगच्छंश्च तुरगं निवृत्तोऽथ किरीटभृत्।
यदृच्छया समापेदे पुरं राजगृहं तदा॥ 14-83-2(94820)
तमभ्याशगतं दृष्ट्वा सहदेवात्मजः प्रभो।
क्षत्रधर्मे स्थितो वीरः समरायाजुहाव ह॥ 14-83-3(94821)
ततः पुरात्स निष्क्रम्य रथी धन्वी शरी तली।
मेघसन्धिः पदातिं तं धनंजयमुपाद्रवत्॥ 14-83-4(94822)
आसाद्य च महातेजा मेघसन्धिर्धनंजयम्।
बालभावान्महाराज प्रोवाचेदं न कौशलात्॥ 14-83-5(94823)
किमयं चार्यते वाजी स्इत्रीमध्य इव भारत।
हयमेनं हरिष्यामि प्रयतस्व विमोक्षणे॥ 14-83-6(94824)
अदत्तानुनयो युद्धे यदि त्वं पितृभिर्मम।
करिष्यामि तवातिथ्यं प्रहर प्रहरामि च॥ 14-83-7(94825)
इत्युक्तः प्रत्युवाचैनं प्रहसन्निव पाण्डवः।
विघ्नकर्ता मया वार्य इति मे व्रतमाहितम्॥ 14-83-8(94826)
भ्रात्रा ज्येष्ठेन नृपते तवापि विदितं ध्रुवम्।
प्रहरस्व यथाशक्ति न मन्युर्विद्यते मम॥ 14-83-9(94827)
इत्युक्तः प्राहरत्पूर्वं पाण्डवं मगधेस्वरः।
किरञ्शरसहस्राणि वर्षाणीव सहस्रदृक्॥ 14-83-10(94828)
ततो गाण्डीवभृच्छूरो गाण्डीवप्रहितैः शरैः।
चकार मोघांस्तान्बाणान्सयत्नान्भरतर्षभ॥ 14-83-11(94829)
स मोघं तस्य बाणौघं कृत्वा वानरकेतनः।
शरात्मुमोच ज्वलितान्दीप्तास्यानिव पन्नगान्॥ 14-83-12(94830)
ध्वजे पताकादण्डेषु रथे यन्त्रे हयेषु च।
अन्येषु च रथाङ्गेषु न शरीरे न सारथौ॥ 14-83-13(94831)
संरक्ष्यमाणः पार्थेन शरीरे सव्यसाचिना।
मन्यमानः स्ववीर्यं तन्मागधः प्राहिणोच्छरान्॥ 14-83-14(94832)
ततो गाण्डीवधन्वा तु मागधेन भृशाहतः।
बभौ वसन्तसमये पलासः पुष्पितो यथा॥ 14-83-15(94833)
अवध्यमानः सोऽभ्यघ्नन्मागधः पाण्डवर्षभम्।
तेन तस्थौ स कौरव्य लोकवीरस्य दर्शने॥ 14-83-16(94834)
सव्यसाची तु संक्रुद्धो विकृष्य बलवद्धनुः।
हयांश्चकार निर्जीवान्सारथेश्च शिरोऽहरत्॥ 14-83-17(94835)
धनुश्चास्य महच्चित्रं क्षुरेण प्रचकर्त ह।
हस्तावापं पताकां च ध्वजं चास्यन्यपातयत्॥ 14-83-18(94836)
स राजा व्यथितो व्यश्वो विधनुर्हतसारथिः।
गदामादाय कौन्तेयमभिद्रद्राव वेगवान्॥ 14-83-19(94837)
तस्यापतत एवाशु गदां हेमपरिष्कृताम्।
शरैश्चकर्त बहुधा बहुभिर्गृध्रवाजितैः॥ 14-83-20(94838)
सा गदा शकलीभूता विशीर्णिमणिबन्धना।
व्याली विमुच्यमानेन पपात धरणीतले॥ 14-83-21(94839)
विरथं विधनुष्कं च गदया परिवर्जितम्।
`नैच्छत्ताडयितुं धीमानर्जुनः समराग्रणीः॥ 14-83-22(94840)
तत एनं विमनसं क्षत्रधर्मे व्यवस्थितम्॥'
सान्त्वपूर्वमिदं वाक्यमब्रवीत्कपिकेतनः॥ 14-83-23(94841)
पर्याप्तः क्षत्रधर्मोऽयं दर्शितः पुत्र गम्यताम्।
बह्वेतत्समरे कर्म तव बालस्य पार्थिव॥ 14-83-24(94842)
युधिष्ठिरस्य संदेशो न हन्तव्या नृपा इति।
तेन जीवसि राजंस्त्वमपराद्धोऽपि मे रणे॥ 14-83-25(94843)
इति मत्वा तदाऽऽत्मानं प्रत्यादिष्टं स्म मागधः।
तथ्यमित्यभिगम्यैनं प्राञ्जलिः प्रत्यपूजयत्॥ 14-83-26(94844)
परिजितोस्मि भद्रं ते नाहं योद्धुमिहोत्सहे।
यद्यत्कृत्यं मया तेऽद्य तद्ब्रूहि कृतमेव तु॥ 14-83-27(94845)
तमर्जुनः समाश्वास्य पुनरेवेदमब्रवीत्।
आगन्तव्यं परां चैत्रीमश्वमेधे नृपस्य नः॥ 14-83-28(94846)
इत्युक्तः स तथेत्युक्त्वा पूजयमास तं हयम्।
फल्गुनं च युधिश्रेष्ठं विदिवत्सहदेवजः॥ 14-83-29(94847)
ततो यथेष्टमगमत्पुनरेव स कौरवः।
ततः समुद्रतीरेण वङ्गान्पुण्ड्रान्सकेरलान्॥ 14-83-30(94848)
तत्रतत्र च भूरीणि म्लेच्छसैन्यान्यनेकशः।
विजिग्ये धनुषा राजन्गाण्डीवेन धनंजयः॥ ॥ 14-83-31(94849)
इति श्रीमन्महाभारते आश्वमेधिकपर्वणि अनुगीतापर्वणि त्र्यशीतितमोऽध्यायः॥ 83 ॥
Mahabharata - Ashvamedhika Parva - Chapter Footnotes
7-83-7 अदत्तानुनयः अशिक्षितः॥ 7-83-20 गृध्रवाजितैः गृध्रपक्षयुतैः॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|